तूर्यारावैराहितोत्तालतालै-
र्गायन्तीभिः काहलं काहलाभिः ।
नृत्ते चक्षुःशून्यहस्तप्रयोगं
काये कूजन्कम्बुरुच्चैर्जहास ॥

मल्लिनाथः तूर्यारावैरिति ॥ आहिताः संपादिता उत्तालाः प्रस्फुटास्तालाः करपुटादिक्रियामानानि येषु तैः । `तालःकालक्रियामानम्` इत्यमरः । तूर्यारावैर्मृदङ्गादिवाद्यघोषैस्तथा काहलं भृशं गायन्तीभिः ध्वनन्तीभिः काहलाभिः शुष्कैर्वाद्यविशेषैश्च करणैः । `काहलं भृशशुष्कयोः । वाद्यभाण्डविशेषे तु काहलः काहलाः खले` इति विश्वः । काये अपमूर्ध्नि कलेवरे । अत एव चक्षुःशून्यो दृष्टिरहितो हस्तप्रयोगो यसिन्कर्मणि तत्तथा नृत्ते नृत्यति सति । कर्तरि क्तः । कूजन्ध्वनन् कम्बुः शङ्खः । तटस्थ इवेत्यर्थः । उच्चैस्तरां जहास । दृष्टिशून्याभिनयस्य नाट्यशास्त्रविरोधादट्टहासमकरोदित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । `अङ्गैरालापयेद्गीतं हस्तेनार्थं प्रदर्शयेत् । दृष्टिभ्यां भावयेद्भावं पादाभ्यां तालनिर्णयः ॥` इति नाट्यविदः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
तू र्या रा वै रा हि तो त्ता ता लै
र्गा न्ती भिः का लं का ला भिः
नृ त्ते क्षुः शू न्य स्त प्र यो गं
का ये कू न्क म्बु रु च्चै र्ज हा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.