Loading data... On slow networks this could take a few minutes.
100%

उत्प्लुत्यारादर्धचन्द्रेण लूने
वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
सैन्यैः कण्ठच्छेदलीने कबन्धा-
द्भूयो बिभ्ये वल्गतः सासिपाणेः ॥

मल्लिनाथः उत्प्लुत्येति ॥ अर्धचन्द्रेण बाणेन लूने छिन्ने तथापि क्रोधेन दष्टौ ओष्ठौ यैस्तथाभूता दन्ता यस्य तस्मिन् अन्यस्य योधस्य वक्त्रे आरादनतिदूरमुप्लुत्य । `आराद्दूरसमीपयोः` इत्यमरः । भूयः पुनरपि कण्ठस्य छेदः छिन्नदेशः तत्र लीने स्थिते सति वल्गतो नृत्यतः सासिः पाणिर्यस्य तस्मात्कबन्धादपमूर्धकलेवरात् । भीत्रार्थानां भयहेतुः (अष्टाध्यायी १.४.२५ ) इति पञ्चमी । सैन्यैर्बिभ्ये भीतम् । भावे लिट् । लुनस्यापि वक्त्रस्य पुनः स्वस्थानपातित्वाद्वल्गनासिधारणाभ्यां कबन्धादप्यकबन्धभ्रान्त्या सर्वे बिभ्युरित्यर्थः । अत एव भ्रान्तिमदलंकारः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
त्प्लु त्या रा र्ध न्द्रे लू ने
क्त्रे ऽन्य स्य क्रो ष्टो ष्ठ न्ते
सै न्यैः ण्ठ च्छे ली ने न्धा
द्भू यो बि भ्ये ल्ग तः सा सि पा णेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.