शोचित्वाग्रे भृत्ययोर्मृत्युभाजो-
रर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं
पश्चात्तापादाप दाहं यथान्तः ॥
शोचित्वाग्रे भृत्ययोर्मृत्युभाजो-
रर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं
पश्चात्तापादाप दाहं यथान्तः ॥
रर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं
पश्चात्तापादाप दाहं यथान्तः ॥
मल्लिनाथः
शोचित्वेति ॥ ऋच्छतीत्यर्यः । `अर्यः स्वामिवैश्ययोः (अष्टाध्यायी ३.१.१०३ ) इति यत्प्रत्ययान्तो निपातः । अग्रे समक्षमेव मृत्युभाजोर्मरणं गतयोर्भृत्ययोः शोचित्वा वल्लभस्यैतयोर्मध्ये प्रियभृत्यस्य संबन्धिना प्रेम्णा । तद्गतप्रेम्णेत्यर्थः । तथा तेन प्रकारेणान्तर्दाहं संतापं नो आप । यथा येन प्रकारेणेतरस्याऽवल्लभस्य पूर्वं जीवनकाले प्रसादं प्रीतिदानाद्यनुग्रहं न कृत्वा पश्चात्तापाद्धतोऽयमस्माभिरप्रीणित एव प्राणान्प्रादादित्यनुशयाद्दाहमाप। प्रियभृत्यमरणादप्यसंमानितमरणमेव स्वामिनो दुःसहं दुःखहेतुरासीदित्यर्थः । स्वभावोक्तिः
छन्दः
शालिनी [११: मततगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| शो | चि | त्वा | ग्रे | भृ | त्य | यो | र्मृ | त्यु | भा | जो |
| र | र्यः | प्रे | म्णा | नो | त | था | व | ल्ल | भ | स्य |
| पू | र्वं | कृ | त्वा | ने | त | र | स्य | प्र | सा | दं |
| प | श्चा | त्ता | पा | दा | प | दा | हं | य | था | न्तः |
| म | त | त | ग | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.