रोषावेशाद्गच्छतां प्रत्यमित्रं
दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।
दीर्घास्तिर्यग्वैजयन्तीसदृश्यः
पादातानां भ्रेजिरे खड्गलेखाः ॥

मल्लिनाथः रोषावेशादिति ॥ रोषावेशात्प्रत्यमित्रमभिशत्रुम् । आभिमुख्येऽव्ययीभावः । गच्छतां धावतां द्रवतां दूरादुत्क्षिप्ता उद्यताः स्थूलाः पीवराः बाहुध्वजाः ध्वजस्तम्भा इव बाहवो येषां तेषां पादातानां पदातिसमूहानाम् । `पादातं पत्तिसंहतिः` इत्यमरः । “षिद्भिदादिभ्योऽङ्` (अष्टाध्यायी ३.३.१०४ ) । तिर्यग्दीर्घाः । तिर्यगायता इत्यर्थः । लेखा इव खगाः खङ्गलेखाः वैजयन्तीसदृश्यः । पताकासदृश्यः सत्य इत्यर्थः । `वैजयन्ती पताका स्यात्` इत्यमरः । `दृशेः समानान्ययोश्च` (वा०) इति `कञ् च वक्तव्यः` इति समानशब्दोपपदादृशेः कन्प्रत्ययः । दृक्षे चेति वक्तव्यम्` (वा०) इति समानस्य सभावः । भ्रेजिरे रेजिरे। `भ्राजृ दीप्तौ` इति धातोः कर्तरि लिट् । `फणां च सप्तानाम्` (अष्टाध्यायी ६.४.१२५ ) इति विकल्पादेत्वाभ्यासलोपौ । आर्थीयमुपमा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
रो षा वे शा द्ग च्छ तां प्र त्य मि त्रं
दू रो त्क्षि प्त स्थू बा हु ध्व जा नाम्
दी र्घा स्ति र्य ग्वै न्ती दृ श्यः
पा दा ता नां भ्रे जि रे ड्ग ले खाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.