Loading data... On slow networks this could take a few minutes.
100%

कंचिद्दूरादायतेन द्रढीयः-
प्रासप्रोतस्रोतसान्तःक्षतेन ।
हस्ताग्रेण प्राप्तमप्यग्रतोऽभू-
दानैश्वर्यं वारणस्य ग्रहीतुम् ॥

मल्लिनाथः कंचिदिति ॥ दूरादायतेनान्तःक्षतेन विक्षतेन अत एव द्रढीयसा प्रासेन प्रोतं स्रोतो यत्र तेन हस्ताग्रेण करणेन अग्रतः प्राप्तमपि कंचिद्भटं ग्रहीतुमादातुं वारणस्थानीश्वरस्य भाव आनैश्वर्यमसामर्थ्यमभूत् । `नजः शुचीश्वर-` (अष्टाध्यायी ७.३.३० ) इत्यादिना नञ्पूर्वपदोभयपदवृद्धिः। अत्रापि आनैश्वर्यसंबन्धोक्तेरतिशयोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
कं चि द्दू रा दा ते द्र ढी यः
प्रा प्रो स्रो सा न्तः क्ष ते
स्ता ग्रे प्रा प्त प्य ग्र तो ऽभू
दा नै श्व र्यं वा स्य ग्र ही तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.