Loading data... On slow networks this could take a few minutes.
100%

आपस्काराल्लूनगात्रस्य भूमिं
निःसाधारं गच्छतोपाङ्मुखस्य ।
लब्धायामं दन्तयोर्युग्ममेव
स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥

मल्लिनाथः आपस्कारादिति ॥ गात्रमूलमापस्कारं आपस्कारादामूलात् । आङो विकल्पादसमासः । लूनगात्रस्य छिन्नजङ्घस्य । `द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्राऽवरे क्रमात्` इत्यमरः । अत एवावाङ्मुखस्य सतः साधारं सावलम्बनं न भवतीति निःसाधारं यथा तथा भूमिं गच्छतः । पतत इत्यर्थः । नागस्य लब्धायामं प्राप्तदैर्घ्यम् । आयतमित्यर्थः । स्वं स्वकीयं दन्तयोर्युग्ममेवोत्तम्भनत्वमवलम्बनत्वं प्रापत् । जङ्घाच्छेदेऽपि दन्तावष्टम्भादपतित इत्यर्थः । अत्र स्वभावातिशयोक्त्तयोः संसृष्टिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
स्का रा ल्लू गा त्र स्य भू मिं
निः सा धा रं च्छ तो पा ङ्मु स्य
ब्धा या मं न्त यो र्यु ग्म मे
स्वं ना स्य प्रा दु त्त म्भ त्वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.