Loading data... On slow networks this could take a few minutes.
100%

दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं
मत्तो हस्तं हस्तिराजः स्वमेव ।
भीमं भूमौ लोलमानं सरोषः
पादेनासृक्पङ्कपेषं पिपेष ॥

मल्लिनाथः दूरोत्क्षिप्तेति ॥ मत्तो हस्तिराजः करीन्द्रः दूरादुत्क्षिप्तेन प्रास्तेन अत एव क्षिप्रेण सत्वरेण चक्रेण कृत्तं अत एव भूमौ लोलमानं लुठमानम् । लोलतेरनात्मनेपदित्वात् `ताच्छील्यवयोवचनशक्तिषु चानश्` (अष्टाध्यायी ३.२.१२९ ) इति ताच्छील्ये चानश् प्रत्ययः । अत एव `लोलमानादयश्चानशी`ति वामनः । भीमं भयंकर स्वं स्वकीयमेव हस्तं सरोषः सन् पादेनाङ्गिणा असृक्पङ्केन पकीभूतेनासृजा पिनष्टीत्यसृक्पङ्कपेषम् । `स्नेहने पिषः` (अष्टाध्यायी ३.४.३८ ) इति णमुल् । पिपेष । कषादित्वादनुप्रयोगः । रक्तपङ्केन स्नेहद्रव्येण ममर्देत्यर्थः । क्रुद्धमत्तयोः कुतो विवेक इति भावः । अत्र पेषणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
दू रो त्क्षि प्त क्षि प्र क्रे कृ त्तं
त्तो स्तं स्ति रा जः स्व मे
भी मं भू मौ लो मा नं रो षः
पा दे ना सृ क्प ङ्क पे षं पि पे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.