Loading data... On slow networks this could take a few minutes.
100%

कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूप-
स्तारस्ताराजालसारामिव द्याम् ।
खड्गाघातैर्दारिताद्दन्तिकुम्भा-
दाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥

मल्लिनाथः कुर्वन्निति ॥ ज्योत्स्नाविप्रुषां तुल्यरूपः चन्द्रिकाबिन्दुस्वरूपः तारः शुद्धः । `तारो मुक्तादिसंशुद्धौ` इति विश्वः । खड्गाघातैर्दारितादृन्तिकुम्भात्प्रोच्छलन्नुत्पतन् मौक्तिकौघो मुक्तापुञ्जो द्यामाकाशं ताराजालसारां नक्षत्रशबलितां तारकितां कुर्वन्नित्युत्प्रेक्षा । `सारः शबलपीतयोः` इति विश्वः । आभाति स्म बभौ
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
कु र्व ञ्ज्यो त्स्ना वि प्रु षां तु ल्य रू
स्ता स्ता रा जा सा रा मि द्याम्
ड्गा घा तै र्दा रि ता द्द न्ति कु म्भा
दा भा ति स्म प्रो च्छ न्मौ क्ति कौ घः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.