Loading data... On slow networks this could take a few minutes.
100%

क्रामन्दन्तौ दन्तिनः साहसिक्या-
दीषादण्डौ मृत्युशय्यातलस्य ।
सैन्यैरन्यस्तत्क्षणादाशशङ्के
स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥

मल्लिनाथः क्रामन्निति ॥ मृत्युशय्यातलस्यान्तकपर्यङ्करूपस्य । `अधःस्वरूपयोरस्त्री तलम्` इत्यमरः । ईषादण्डौ दारुविशेषौ तत्सदृशौ । आयतावित्यर्थः । दन्तिनो दन्तौ । सहसा वर्तत इति साहसिकः । `ओजःसहोम्भसा वर्तते` (अष्टाध्यायी १.४.२७ ) इति ठक् प्रत्ययः । तस्य भावात्साहसिक्यात्क्रामन् । साहसवानित्यर्थः । अन्यस्तत्क्षणादुच्चैरूर्ध्वस्य स्वर्गस्य अर्धश्चासौ मार्गश्चेति तदर्धमार्गाधिरूढ इति सैन्यैराशशङ्के उत्प्रेक्षित इत्युत्प्रेक्षा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
क्रा न्द न्तौ न्ति नः सा सि क्या
दी षा ण्डौ मृ त्यु य्या स्य
सै न्यै न्य स्त त्क्ष णा दा ङ्के
स्व र्ग स्यो च्चै र्ध मा र्गा धि रू ढः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.