Loading data... On slow networks this could take a few minutes.
100%

आताम्राभा रोषभाजः कटान्ता-
दाशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे
दानस्याहो लोहितस्येव धारा ॥

मल्लिनाथः आताम्रेति ॥ रोषभाजः क्रुद्धस्य नागराजस्य महेभस्य कटान्ताद्गण्डस्थलानिश्च्योतन्ती प्रागेव स्रवन्ती दानस्य मदस्य धारा आताम्राभा क्रोधादरुणवर्णा जज्ञे जाता । आहो धूर्गतेन पुरोगतेन यन्त्रा मार्गणे शरे आशूत्खाते लोहितस्य क्षतजस्येव धारा जज्ञे । जनेः कर्तरि लिट् । किमियं क्रोधारुणा मदधारा शरोद्धरणजन्या रक्तधारा वेत्युभयकारणसंभवात्सादृश्याच्च संशयः, स च विकल्पितसादृश्यमूल इत्यलंकारः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
ता म्रा भा रो भा जः टा न्ता
दा शू त्खा ते मा र्ग णे धू र्ग ते
नि श्च्यो न्ती ना रा स्य ज्ञे
दा स्या हो लो हि स्ये धा रा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.