रथ्याघोषैर्बृंहणैर्वारणाना-
मैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीना-
मव्यक्तोऽभूदीशितेव प्रणादः ॥
रथ्याघोषैर्बृंहणैर्वारणाना-
मैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीना-
मव्यक्तोऽभूदीशितेव प्रणादः ॥
मैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीना-
मव्यक्तोऽभूदीशितेव प्रणादः ॥
मल्लिनाथः
रथ्येति ॥ संततं व्योमव्यापी गगनस्पृक्, अन्यत्र सर्वगत इत्यर्थः । दुन्दुभीनां रणभेरीणां प्रणादो महाघोषः । `उपसर्गादसमासेऽपि णोपदेशस्य` (८।४॥ १४) इति णत्वम् । रथानां समूहो रथ्या । `त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे` इत्यमरः । `खलगोरथात्` (अष्टाध्यायी ४.२.५० ) इति यत्प्रत्ययः समूहार्थे । तासां घोषैः वारणानां बृंहणैः कण्ठघोषैः । `बृहणं गजगर्जितम्` इति वैजयन्ती । वाजिनामश्वानां हेषया हेषणेन च । `हेषा हेषा च निस्वनः` इत्यमरः । `गुरोश्च हलः` (अष्टाध्यायी ३.३.१०३ ) इत्यप्रत्यये टाप् । ऐक्यं मेलनं गच्छन् । अन्यत्र तत्त्वंपदार्थशोधनादद्वितीयतां गच्छन् । ईशिता ईशयिता ईश्वरत्वोपाधिमान्परमात्मेव । ईशेस्तृच् । अव्यक्तोऽभूत् अयं दुन्दुभिघोष इति दुर्भेदो बभूव । अन्यत्र जीवेश्वरोपाधिविलयात् `अयमीश्वरः, अयं जीव` इति भेदरहितोऽभूदित्यर्थः । अत्रैक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वात्काव्यलिङ्गमुपमाङ्गमिति संकरः
छन्दः
शालिनी [११: मततगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| र | थ्या | घो | षै | र्बृं | ह | णै | र्वा | र | णा | ना |
| मै | क्यं | ग | च्छ | न्वा | जि | नां | ह्रे | ष | या | च |
| व्यो | म | व्या | पी | स | न्त | तं | दु | न्दु | भी | ना |
| म | व्य | क्तो | ऽभू | दी | शि | ते | व | प्र | णा | दः |
| म | त | त | ग | ग | ||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.