रथ्याघोषैर्बृंहणैर्वारणाना-
मैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीना-
मव्यक्तोऽभूदीशितेव प्रणादः ॥

मल्लिनाथः रथ्येति ॥ संततं व्योमव्यापी गगनस्पृक्, अन्यत्र सर्वगत इत्यर्थः । दुन्दुभीनां रणभेरीणां प्रणादो महाघोषः । `उपसर्गादसमासेऽपि णोपदेशस्य` (८।४॥ १४) इति णत्वम् । रथानां समूहो रथ्या । `त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे` इत्यमरः । `खलगोरथात्` (अष्टाध्यायी ४.२.५० ) इति यत्प्रत्ययः समूहार्थे । तासां घोषैः वारणानां बृंहणैः कण्ठघोषैः । `बृहणं गजगर्जितम्` इति वैजयन्ती । वाजिनामश्वानां हेषया हेषणेन च । `हेषा हेषा च निस्वनः` इत्यमरः । `गुरोश्च हलः` (अष्टाध्यायी ३.३.१०३ ) इत्यप्रत्यये टाप् । ऐक्यं मेलनं गच्छन् । अन्यत्र तत्त्वंपदार्थशोधनादद्वितीयतां गच्छन् । ईशिता ईशयिता ईश्वरत्वोपाधिमान्परमात्मेव । ईशेस्तृच् । अव्यक्तोऽभूत् अयं दुन्दुभिघोष इति दुर्भेदो बभूव । अन्यत्र जीवेश्वरोपाधिविलयात् `अयमीश्वरः, अयं जीव` इति भेदरहितोऽभूदित्यर्थः । अत्रैक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वात्काव्यलिङ्गमुपमाङ्गमिति संकरः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
थ्या घो षै र्बृं णै र्वा णा ना
मै क्यं च्छ न्वा जि नां ह्रे या
व्यो व्या पी न्त तं दु न्दु भी ना
व्य क्तो ऽभू दी शि ते प्र णा दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.