मातङ्गानां दन्तसंघट्टजन्मा
हेमच्छेदछ्छायाचञ्चच्छिखाग्रः ।
लग्नोऽप्यग्निश्चामरेषु प्रकामं
माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥
मातङ्गानां दन्तसंघट्टजन्मा
हेमच्छेदछ्छायाचञ्चच्छिखाग्रः ।
लग्नोऽप्यग्निश्चामरेषु प्रकामं
माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥
हेमच्छेदछ्छायाचञ्चच्छिखाग्रः ।
लग्नोऽप्यग्निश्चामरेषु प्रकामं
माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥
मल्लिनाथः
मातङ्गानामिति ॥ मातङ्गानां दन्तिनां दन्तसंघट्टजन्मा दन्तसंघर्षोत्थः हेमच्छेदच्छायानि कनकपरागवर्णानि चञ्चन्ति चलन्ति च शिखाग्राणि ज्वालाग्राणि यस्य सोऽग्निः मञ्जिष्ठया ओषधिविशेषेण रक्तेषु माञ्जिष्ठेषु । `तेन रक्तं रागात्` (अष्टाध्यायी ४.२.१ ) इत्यण्प्रत्ययः । `मञ्जिष्ठा विकसा जिङ्गी` इत्यमरः । चामरेषु लग्नोऽपि सैन्यैः प्रकामं न व्यज्यते न विविच्यते स्म । सावर्ण्यादिति भावः । अतः सामान्यालंकारः। `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात् । स च विशेषणोत्थकाव्यलिङ्गसंकीर्णः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| मा | त | ङ्गा | नां | द | न्त | सं | घ | ट्ट | ज | न्मा |
| हे | म | च्छे | द | छ्छा | या | च | ञ्च | च्छि | खा | ग्रः |
| ल | ग्नो | ऽप्य | ग्नि | श्चा | म | रे | षु | प्र | का | मं |
| मा | ञ्जि | ष्ठे | षु | व्य | ज्य | ते | न | स्म | सै | न्यैः |
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.