Loading data... On slow networks this could take a few minutes.
100%

ओषामासे मत्सरोत्पातवाता-
श्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
योगान्तैर्वा वह्निभिर्वारणाना-
मुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥

मल्लिनाथः ओषामासे इति ॥ मत्सरो वैरमेवोत्पातवात आकस्मिकवायुस्तेनाश्लिष्यतां संयुज्यमानानां दन्तानामेव क्ष्मारुहां वृक्षाणां घर्षणेनोत्था जन्म येषां तैर्वह्निभिर्योगान्तैर्वा युगान्तभवैर्वह्निभिरिव वारणानामुच्चैरुन्नतैः मूर्धा व्योमेव तस्मिन्मूर्धव्योग्नि नक्षत्रमाला हारविशेषः । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः` इत्यमरः । ज्योतिर्मण्डलं च ओषामासे । दग्धेत्यर्थः । `उष दाहे` इति धातोः कर्मणि लिट् । `उपविदजागृभ्योऽन्यतरस्याम्` (अष्टाध्यायी ३.१.३८ ) इत्याम्प्रत्ययः । लघूपधगुणः `कृञ्चानुप्रयुज्यते लिटि` (अष्टाध्यायी ३.१.४० ) इत्यस्तेश्वानुप्रयोगः । अत्र नक्षत्रमालयोरभेदाध्यवसायेन निर्देशाद्रूपकश्लेषसंकीर्णेयमुपमा
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
षा मा से त्स रो त्पा वा ता
श्लि ष्य द्द न्त क्ष्मा रु हां र्ष णो त्थैः
यो गा न्तै र्वा ह्नि भि र्वा णा ना
मु च्चै र्मू र्ध व्यो म्नि क्ष त्र मा ला
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.