द्राधीयांस संहताः स्थेमभाज-
श्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां
भङ्गं जग्मुर्न स्वयं सामजाताः ॥
द्राधीयांस संहताः स्थेमभाज-
श्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां
भङ्गं जग्मुर्न स्वयं सामजाताः ॥
श्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां
भङ्गं जग्मुर्न स्वयं सामजाताः ॥
मल्लिनाथः
&#३२; द्राधीयांस इति ॥ दाधीयांसो दीर्घतराः । प्रियस्थिर(अष्टाध्यायी ६.४.१५७ ) इत्यादिना दीर्घस्य ईयसुनि द्राघादेशः । संहताः सुघटिताः अत एव स्थेमभाजः स्थैर्यभाजः । `प्रियस्थिर-` (अष्टाध्यायी ६.४.१५७ ) इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः । चारवो रम्या उदग्रा उन्नताश्च ते चारूदग्राः । विशेषणसमासः । तीक्ष्णतां नैशित्यं अत्यजन्तः सामजानां गजानां दन्ता दन्तैः प्रतिगजविषाणैराहताः सन्तो भङ्गं भेदं जग्मुः बभञ्जु: । सामजाता दन्तिनस्तु स्वयं भङ्गं पराजयं न जग्मुः। दन्तभङ्गेऽपि स्वयं न परावर्तन्त इत्यर्थः । अत्रापरावर्तित्वेन वर्ण्यतया प्रकृतत्वादुपमेयानां दन्तिनामुपमानदन्तापेक्षया अभग्नत्वेनाधिक्योक्तेर्व्यतिरेकस्तुल्ययोगिताया बाधक इति गमयितव्यम्
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| द्रा | धी | यां | स | सं | ह | ताः | स्थे | म | भा | ज |
| श्चा | रू | द | ग्रा | स्ती | क्ष्ण | ता | म | त्य | ज | न्तः |
| द | न्ता | द | न्तै | रा | ह | ताः | सा | म | जा | नां |
| भ | ङ्गं | ज | ग्मु | र्न | स्व | यं | सा | म | जा | ताः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.