अन्योन्येषां पुष्करैरामृशन्तो
दानोद्भेदानुच्चकैभुग्नवालाः ।
उन्मूर्धानः सन्निपत्यपरान्तैः
प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥

मल्लिनाथः अन्योन्येषामिति ॥ इभा गजाः अन्योन्येषां परस्परेषाम् । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्याद्वित्वम् । `समासवच्च बहुलम्` इति विकल्पादसमासत्वपक्षे पूर्वपदस्य प्रथमैकवचनं वक्तव्यम् । उद्भिद्यन्ते एष्विति उद्भेदाः । `अकर्तरि च कारके संज्ञायाम्` (अष्टाध्यायी ३.३.१९ ) इत्यधिकरणार्थे घञ् प्रत्ययः । दानोद्भेदान्कटादिमदस्थानानि पुष्करैर्हस्ताग्रै:] । `पुष्करं करिहस्ताग्रे` इत्यमरः । आमृशन्तो जिघ्रन्त उच्चकैरुन्नता भुग्नवालाः प्रह्वीकृतपुच्छाः । `बाल: केशे शिशौ मूर्खे वालो वाजीभपुच्छयोः` इति विश्वः । उन्मूर्धान उन्नतमस्तकाः सन्तः स्पष्ठदन्तध्वनि यथा तथा संनिपत्यापरान्तैः सह प्रायुध्यन्त । दिवादिकस्य युध्यतेः कर्तरि लङ् । स्वभावोक्तिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
न्यो न्ये षां पु ष्क रै रा मृ न्तो
दा नो द्भे दा नु च्च कै भु ग्न वा लाः
न्मू र्धा नः न्नि त्य रा न्तैः
प्रा यु ध्य न्त स्प ष्ट न्त ध्व नी भाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.