यत्नाद्रक्षन्सुस्थितत्वादनाशं
निश्चत्यन्यश्चेतसा भावितेन ।
अन्त्यावस्थाकालयोग्योपयोगं
दध्रेऽभीष्टं रागमापद्धनं वा ॥

मल्लिनाथः यत्नादिति ॥ अन्यः गजारोहः भावितेनालोचितेन चेतसा सुस्थितत्वादनपायिदेशत्वादनाशमनपायं निश्चित्य यत्नाद्रक्षन् वञ्चकेभ्यस्त्राय(माणः)न् सन् । अन्त्यावस्थाकाले साधनान्तरकाले नाशकाले योग्योपयोगं अत एवाभीष्टं नागं गजमापद्धनं वापद्धनमिव दध्रे अन्यतोऽपसार्य धारयामास । धरते: स्वरितेत्त्वात्कर्तरि लिट् तङ्
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
त्ना द्र क्ष न्सु स्थि त्वा ना शं
नि श्च त्य न्य श्चे सा भा वि ते
न्त्या स्था का यो ग्यो यो गं
ध्रे ऽभी ष्टं रा मा द्ध नं वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.