आस्थद्दृष्टेराच्छदं च प्रमत्तो
यन्ता यातुः प्रत्यरीभं द्विपस्य ।
भग्नस्योच्चैर्बर्हभारेण शङ्को-
रवव्राते वीक्षणे च क्षणेन ॥
आस्थद्दृष्टेराच्छदं च प्रमत्तो
यन्ता यातुः प्रत्यरीभं द्विपस्य ।
भग्नस्योच्चैर्बर्हभारेण शङ्को-
रवव्राते वीक्षणे च क्षणेन ॥
यन्ता यातुः प्रत्यरीभं द्विपस्य ।
भग्नस्योच्चैर्बर्हभारेण शङ्को-
रवव्राते वीक्षणे च क्षणेन ॥
मल्लिनाथः
आस्थदिति ॥ यन्ता प्रमत्तः सन् प्रत्यरीभमरिगजं प्रति । आभिमुख्येऽव्ययीभावः । यातुर्गन्तुः । यातेस्तृच् । द्विपस्य दृष्टेराच्छदमावरणम् । पुंसि संज्ञायां घः । आस्थन्निरस्तवान् । `अस्यतिवक्तिख्यातिभ्योऽङ्` (अष्टाध्यायी ३.१.५२ ) इति च्लेरङादेशः `अस्यतेस्थुक्` (अष्टाध्यायी ७.४.१७ ) इति थुगागमः । मग्नस्य मुखनिमग्नस्य शङ्कोः शल्यायुधस्य । `वा पुंसि शल्यं शङ्कर्ना इत्यमरः । उच्चैर्बर्हभारेण पिच्छपटलेन वीक्षणे चक्षुषी क्षणेनावव्राते आवृते । वृणोतेः कर्मणि लिट् । अन्योन्यसमुच्चयचकाराभ्यामावरणनिरासे पुनरावरणयोरेककाले संबन्धोक्तेरतिशयोक्तिः
छन्दः
उपजातिः [११]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ |
|---|---|---|---|---|---|---|---|---|---|---|
| आ | स्थ | द्दृ | ष्टे | रा | च्छ | दं | च | प्र | म | त्तो |
| य | न्ता | या | तुः | प्र | त्य | री | भं | द्वि | प | स्य |
| भ | ग्न | स्यो | च्चै | र्ब | र्ह | भा | रे | ण | श | ङ्को |
| र | व | व्रा | ते | वी | क्ष | णे | च | क्ष | णे | न |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.