पत्तिः पत्तिं वाहमेयाय वाजी
नागं नागः स्यन्दनस्थो रथस्थम् ।
इत्थं सेना वल्लभस्येव रागा-
दङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥

मल्लिनाथः पत्तिरिति ॥ पत्तिः पदातिः पत्तिं पदातिम् । `पदातिपत्तिपतगपादातिकपदातयः` इत्यमरः । एयाय प्राप। आङ्पूर्वादिणो लिट् । वाज्यश्वो वाहमश्वमेयाय । &#३२; `वाजिवाहार्वगन्धर्व-` इत्यमरः । नागो गजो नागमेयाय । स्यन्दनस्थो रथस्थमेयाय, न तु व्युत्क्रमेण, धर्मयुद्धत्वादिति भावः । इतीत्थमुक्तरीत्या सेना रागाद्रणरागात्, रतिरागाच्च । अङ्गेन स्वाङ्गेन पत्त्यादिना, करचरणादिना च वल्लभस्य प्रियतमस्येव प्रत्यनीकस्य प्रतिबलस्य । `वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्` इत्यमरः । अङ्गं पत्त्यादिकं, करचरणादिकं च भेजे । यथा कान्ता कान्तस्योरुमूरुणा करं करेण मुखं मुखेन भजति तथा सेना प्रतिसैन्यस्य पत्तिं पत्तिना अश्वमश्वेनेत्यादिक्रमेण भेजे न तु व्युत्क्रमेणेत्यर्थः । वल्लभस्येवेत्युपमया समरसुरतयोः समरसत्वं व्यज्यते
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
त्तिः त्तिं वा मे या वा जी
ना गं ना गः स्य न्द स्थो स्थम्
त्थं से ना ल्ल स्ये रा गा
ङ्गे ना ङ्गं प्र त्य नी स्य भे जे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.