क्रुध्यन्गन्धादन्यनागाय दूरा-
दारोढारं धूतमूर्धावमत्य ।
घोरारावध्वनिताशेषदिक्के
विष्के नागः पर्याणंसीत्स्व एव ॥

मल्लिनाथः क्रुध्यन्निति ॥ दूराद्दूरत एव गन्धान्मदगन्धाघ्राणात् अन्यनागाय प्रतिगजाय क्रुध्यन् । तं जिघांसुरित्यर्थः । `क्रुधद्रुह-` (अष्टाध्यायी १.४.३८ ) इत्यादिना संप्रदानत्वम् । नागो धूतमूर्धा विधूतमस्तकः सन् । आरोढारं यन्तारमवमत्यावधूय घोरारावैः दारुणक्रन्दनैः ध्वानिता अशेषदिशो येन तस्मिंस्तथा उच्चैराक्रोशतीत्यर्थः । शैषिकः कप्प्रत्ययः । स्वे स्वकीय एव । स्वपुत्र एवेत्यर्थः । `पूर्वादिभ्यो नवभ्यो वा` (अष्टाध्यायी ७.१.१६ ) इति विकल्पान्न स्मिन्नादेशः । अत एव स्वे स्वपुत्रे विष्क इति श्लिष्टगत्या व्याख्याय पुत्रस्यापि ज्ञातित्वान्न सर्वनामसंज्ञेति वल्लभोक्तिः प्रामादिकी। विष्के विंशतिवर्षके डिम्भे । `विष्को विंशतिवर्षकः` इति वैजयन्ती । पर्यणंसीत् । तिर्यक्प्रजहारेत्यर्थः । `तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः` इति हलायुधः । `यमरमनमातां सक्च` (अष्टाध्यायी ७.२.७३ ) इति नमेलुङि सगिडागमौ `नेटि` (अष्टाध्यायी ७.२.४ ) इति वृद्धिप्रतिषेधः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
क्रु ध्य न्ग न्धा न्य ना गा दू रा
दा रो ढा रं धू मू र्धा त्य
घो रा रा ध्व नि ता शे दि क्के
वि ष्के ना गः र्या णं सी त्स्व
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.