Loading data... On slow networks this could take a few minutes.
100%

यावच्चक्रे नाञ्जनं बोधनाय
व्युत्थानज्ञो हस्तिचारी मदस्य ।
सेनास्वानाद्दन्तिनामात्मनैव
स्थूलास्तावत्प्रावहन्दानकुल्याः ॥

मल्लिनाथः यावदिति ॥ व्युत्थानं गजोत्थापनं जानातीति व्युत्थानज्ञः हस्तिना चरतीति हस्तिचारी यन्ता । मदस्य बोधनायोत्थापनायाञ्जनमुद्दीपनं कर्म यावन्न चक्रे तावत्प्रागेव । असमाप्ते विधावित्यर्थः । सेनास्वानात् । सेनाकलकलश्रवणादित्यर्थः । दन्तिनामात्मना स्वयमेव स्थूला महत्यो दानकुल्या मदसरितः प्रावहन्निति दन्तिनामुत्साहातिरेकोक्तिः । अञ्जनात्प्राग्दानसंबन्धोक्तेरतिशयोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
या च्च क्रे ना ञ्ज नं बो ना
व्यु त्था ज्ञो स्ति चा री स्य
से ना स्वा ना द्द न्ति ना मा त्म नै
स्थू ला स्ता त्प्रा न्दा कु ल्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.