प्रत्यासन्ने दन्तिनि प्रातिपक्षे
यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि ।
क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः
प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥

मल्लिनाथः प्रत्यासन्ने इति ॥ प्रातिपक्षे प्रतिपक्षसंबन्धिनि । `तस्येदम्` (अष्टाध्यायी ४.३.१२० ) इत्यण् । दन्तिनि गजे प्रत्यासन्ने सति यन्त्रा सादिना प्रास्तवक्त्रच्छदोऽपि निरस्तमुखपटोऽपि क्रोधाक्रान्तः अत एव क्रूरं घोरं निर्दारिताक्षः तथापि मदान्धो नागो गजो न किंचिदेव प्रेक्षांचके । किमपि पुरोगतं प्रातिपक्षमन्यद्वा न ददर्शेत्यर्थः । आवरणान्तराभावेऽपि मदावरणस्यानपायादिति भावः । `इजादेश्च गुरुमतोऽनृच्छः` (३॥१॥३६) इत्याम्प्रत्ययः । अत्रानावृतोन्मीलिताक्षस्याप्यदर्शनविरोधस्य मदान्धेनाविरोधाद्विरोधाभासोऽलंकारः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
प्र त्या न्ने न्ति नि प्रा ति क्षे
न्त्रा ना गः प्रा स्त क्त्र च्छ दो ऽपि
क्रो धा क्रा न्तः क्रू नि र्दा रि ता क्षः
प्रे क्षां क्रे नै कि ञ्चि न्म दा न्धः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.