Loading data... On slow networks this could take a few minutes.
100%

विष्वद्रीचीर्विक्षपन्सैन्यवीची-
राजावन्तः क्वापि दूरं प्रयातम् ।
बभ्रामैकोबन्धुमिष्टं दिदृक्षुः
सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥

मल्लिनाथः विष्वगिति ॥ एकः कोऽपि वीरः । विष्वगञ्चतीति विष्वद्रीचीः सर्वव्यापिनीः । विष्वग्देवयोश्च टेरद्चञ्चतावप्रत्यये` (अष्टाध्यायी ६.३.९२ ) इति टेरद्चादेशः धातोरप्यञ्चतेरुपसंख्यानात् `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् `अचः` (अष्टाध्यायी ६.४.१३८ ) इत्यकारलोपे `चौ` (अष्टाध्यायी ६.३.१३८ ) इति दीर्घः । सैन्यानि वीचिरिव सैन्यवीचीरित्युपमितसमासः । सिन्धौ वेति लिङ्गाद्विक्षिपन्नपाकुर्वन् अन्तराजिमध्ये क्वापि दूरं प्रयातमिष्टं बन्धुं दिदृक्षुर्द्रष्टुमिच्छुः सन् । दृशेः सन्नन्तादुप्रत्ययः । क्वापि प्रयातं मग्नं गोभूमेर्मण्डलं भूगोलं दिदृक्षुराद्यो वराहः सिन्धौ वा समुद्रे इव ।&#३२; `उपमायां विकल्पे वा` इत्यमरः । आजौ बभ्राम । एकवीरस्य कुतो भयमित्यर्थः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
वि ष्व द्री ची र्वि क्ष न्सै न्य वी ची
रा जा न्तः क्वा पि दू रं प्र या तम्
भ्रा मै को न्धु मि ष्टं दि दृ क्षुः
सि न्धौ वा द्यो ण्ड लं गो र्व रा हः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.