जेतुं जैत्राः शेकिरे नारिसैन्यैः
पश्यन्तोऽधो लोकमस्तेषुजालाः ।
नागारूढाः पार्वतानि श्रयन्तो
दुर्गाणीव त्रासहीनास्त्रसानि ॥

मल्लिनाथः जेतुमिति ॥ जेतार एव जैत्रा जयशीलाः । जेतृप्रकृतेः प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः । लोकं जनमधः पश्यन्तः स्वयमुपर्यवस्थानाल्लोकमधोदेशे पश्यन्तः, अधःकृतं मन्यमानाश्च । अस्तेषुजालाः क्षिप्तशरनिकराः त्रासहीना दुर्गस्थत्वान्निर्भीका नागारूढा गजारोहास्त्रस्यन्ति गच्छन्तीति त्रसानि जङ्गमानि । `चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्` इत्यमरः । पार्वतानि पर्वतसंबन्धीनि दुर्गाणि । गिरिदुर्गाणीत्यर्थः । श्रयन्तोऽधितिष्ठन्त इत्युत्प्रेक्षा। तेष्वेवंभूता एवेति भावः । अरिसैन्यैः कर्तृभिः जेतुं न शेकिरे । अशक्ता बभूवुरित्यर्थः । शकेः कर्मणि लिट् । अत्र मनुः–`धनुर्दुर्ग महीदुर्गमब्दुगं वनमेव च । नृदुर्ग गिरिदुर्ग च समाश्रित्य वसेन्नृपः ॥ सर्वेणैव प्रकारेण गिरिदुर्ग समाश्रयेत् । तेषां हि बहुगुण्येन गिरिदुर्ग विशिष्यते ॥` (मनु० ७।७०,७१) इति
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
जे तुं जै त्राः शे कि रे ना रि सै न्यैः
श्य न्तो ऽधो लो स्ते षु जा लाः
ना गा रू ढाः पा र्व ता नि श्र न्तो
दु र्गा णी त्रा ही ना स्त्र सा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.