कुन्तेनोच्चैः सादिना हन्तुमिष्टा-
न्नाजानेयो दन्तिनस्त्रस्यति स्म ।
कर्मोदारं कीर्तये कर्तुकामा-
न्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥

मल्लिनाथः कुन्तेनेति ॥ आजानेयः कुलीनाश्वः । `आजानेयाः कुलीनाः स्युः` इत्यमरः । `शुभ्रादिभ्यश्च` (अष्टाध्यायी ४.१.१२३ ) इति ढक् प्रत्ययः । सादिना अश्वारोहेण कर्त्रा । उच्चैरुन्नतेन कुन्तेन प्रासेन करणेन हन्तुं प्रहर्तुमिष्टादभिप्रेताद्दन्तिनो न त्रस्यति स्म न त्रस्तः । `वा भ्राश-` (अष्टाध्यायी ३.१.७० ) इत्यादिना श्यन्प्रत्ययः । तथा हि—जात्याः कुलीनाः । भवार्थे यत्प्रत्ययः । कीर्तये उदारं कर्म महापौरुषं कर्तुं कामो येषां तान्कर्तुकामान् । `तुं काममनसोरपि` इति मकारलोपः । स्वमेषामस्तीति स्वामिनो भर्तृन् । `स्वामिनैश्वर्ये` (अष्टाध्यायी ५.२.१२६ ) इति निपातः । ह्रेपयन्ति लजयन्ति किम् । न ह्रेपयन्तीत्यर्थः । `अर्तिह्री-` (अष्टाध्यायी ७.३.३६ ) इत्यादिना पुगागमः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
कु न्ते नो च्चैः सा दि ना न्तु मि ष्टा
न्ना जा ने यो न्ति स्त्र स्य ति स्म
र्मो दा रं की र्त ये र्तु का मा
न्किं वा जा त्याः स्वा मि नो ह्रे न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.