भित्वा घोणामायसेनाधिवक्षः
स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।
शिक्षाहेतोर्गाढरज्ज्वेव बद्धो
हर्तुं वक्त्रं नाशकद्दुर्मुखोऽपि ॥

मल्लिनाथः भित्त्वेति ॥ आयसेन अयोमयेन गाों गृध्रसंबन्धी पक्षः पत्रं यस्य तेन गार्धपक्षेण बाणविशेषेण घोणां नासां भित्त्वा । `घोणा नासा च नासिका` इत्यमरः । अधिवक्षो वक्षसि । विभक्त्यर्थेऽव्ययीभावः । विद्धः प्रहतः । व्यधेः कर्मणि क्तः `अहिज्या-` (अष्टाध्यायी ६.१.१६ ) इत्यादिना संप्रसारणम् । स्थूरीपृष्ठो नवारूढोऽश्वः शिक्षैव हेतुः तस्य शिक्षाहेतोः शिक्षया निमित्तेन । शिक्षार्थमिति यावत् । `षष्टी हेतुप्रयोगे` (अष्टाध्यायी २.३.२६ ) इति षष्ठी ।गाढरज्जवा गाढपाशेन बद्ध इवेत्युत्प्रेक्षा ।&#३२; दुर्मुखोऽप्यशिक्षितमुखोऽपि वक्रं हर्तुमपाक्रष्टुं नाशकन्न शक्तः । शकेर्लुङि `पुषादि(अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । शिक्षितो हि शिक्षावशादबद्धोऽपि बद्धवदास्ते, अशिक्षितस्तु निबद्धोऽपि झटिति मुखमपहरतीति भावः । अपिर्विरोधे । अत एव विरोधाभासोऽलंकारः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
भि त्वा घो णा मा से ना धि क्षः
स्थू री पृ ष्ठो गा र्ध्र क्षे वि द्धः
शि क्षा हे तो र्गा ज्ज्वे द्धो
र्तुं क्त्रं ना द्दु र्मु खो ऽपि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.