आमूलान्तात्सायकेनायतेन
स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्रप्यासह्यां वेदनामस्तधैर्या-
दप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥

मल्लिनाथः आमूलान्तादिति ॥ अन्यस्य भटस्य बाहौ आयतेन दीर्घेण सायकेन आमूलान्तान्मूलप्रदेशपर्यन्तम् । आकक्षमित्यर्थः । विकल्पादसमासः । स्यूते प्रोते सति असह्यां वेदनां व्यथां प्राप्य अत एवास्तधैर्यात्त्यक्तधैर्यादपि धारयितुमक्षमादपि मण्डुके संग्राहे श्लिष्टा संदष्टा मुष्टियस्य तस्मात्पाणेश्चर्म फलकम् । `फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः` इत्यमरः । नाभ्रश्यन्नापतत् । अत्र सायकप्रोतमुष्टिश्लेषयोर्विशेषणगत्या धैर्यत्यागचर्मभ्रंशौ प्रति हेतुत्वात्काव्यलिङ्गभेदः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
मू ला न्ता त्सा के ना ते
स्यू ते बा हौ ण्डु श्लि ष्ट मु ष्टेः
प्र प्या ह्यां वे ना स्त धै र्या
प्य भ्र श्य च्च र्म ना न्य स्य पा णेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.