Loading data... On slow networks this could take a few minutes.
100%

नीते भेदं धौतधाराभिघाता-
दम्भोदाभे शात्रवेणापरस्य ।
सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो
विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥

मल्लिनाथः नीत इति ॥ शात्रवेण शत्रुणा । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । धौताया उत्तेजिताया धारायाः खङ्गधाराया अभिघाताद्भेदं नीते विदारितेऽम्भोदाभे मेघश्यामे अपरस्य भटस्य कङ्कटे कवचे। `उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्` इत्यमरः । सहासृग्राज्या सासृग्राजिः सरक्तरेखः तीक्ष्णमार्गस्य खङ्गस्य मार्गः प्रहारो विद्युद्दीप्तस्तडिदुज्वलो लक्ष्यते स्म । उपमालंकारः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
नी ते भे दं धौ धा रा भि घा ता
म्भो दा भे शा त्र वे णा स्य
सा सृ ग्रा जि स्ती क्ष्ण मा र्ग स्य मा र्गो
वि द्यु द्दी प्तः ङ्क टे क्ष्य ते स्म
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.