सद्वंशत्वादङ्गसंसङ्गिनीत्वं
नीत्वा कामं गौरवेणाबबब्द्धा ।
नीता हस्तं वञ्चयित्वा परेण
द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥

मल्लिनाथः सदिति ॥ सद्वंशत्वाच्छुद्धाकरत्वात्कुलीनत्वाच्चाङ्गसंसङ्गिनीत्वमङ्गसंबन्धित्वं नीत्वा । अगुणत्वविवक्षायां `स्वतलोर्गुणवचनस्य` ( वा) इति न पुंवद्भावः । कामं गौरवेणादरेणावबद्धा संयता च कस्यचित्स्वा स्वकीया कृपाणी असिलता। परेणान्येन वञ्चयित्वा प्रतार्य हस्तं नीता स्वायत्तीकृता सती द्रोहं हिंसां व्यभिचारं च चक्रे कृतवती । अत्र प्रकृतकृपाणीविशेषणसाम्यादप्रकृतस्वैरिणीप्रतीतेः समासोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
द्वं त्वा ङ्ग सं ङ्गि नी त्वं
नी त्वा का मं गौ वे णा ब्द्धा
नी ता स्तं ञ्च यि त्वा रे
द्रो हं क्रे स्य चि त्स्वा कृ पा णी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.