सञ्जग्माते तावपायनपेक्षौ
सेनाम्भोधी धीरनादौ रयेण ।
पक्षच्छेदात्पूर्वमेकत्र देशे
वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥

मल्लिनाथः संजग्माते इति ॥ अपायोऽपगमो युद्धादपसरणं तस्यानपेक्षौ तमनिच्छन्तौ । युद्धादनिवर्तिनावित्यर्थः । ईक्षतेः पचाद्यचि नन्समासः । धीरनादौ गम्भीरघोषौ तौ सेनाम्भोधी सेनासागरौ । पक्षच्छेदात्पूर्वं पश्चादसंभवादिति भावः । एकत्र देशे एकस्थाने निलेतुं वस्तुम् । `लीङ् गतौ` इति धातोस्तुमुन्प्रत्यये गुणः । वान्छन्ताविच्छन्तौ सह्यविन्ध्यौ वा सह्यविन्ध्याख्यौ पर्वताविव । `वास्याद्विकल्पोपमयोः` इति विश्वः । संजग्माते मिलितवन्तौ । संपूर्वाद्गच्छतेरकर्मकाल्लिटि `समो गम्यृच्छि-` (१॥३।२९) इत्यादिना आत्मनेपदम् । अत्र सह्यविन्ध्ययोः सपक्षयोरप्येकत्र मिलनस्याप्रसिद्धस्य संभावनामात्रेणोक्तत्वादुपमानाप्रसिद्धेनॊपमा किंतूप्रेक्षेति संक्षेपः । अस्मिन्सर्गे शालिनी वृत्तम् । `शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः` इति लक्षणात्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ञ्ज ग्मा ते ता पा पे क्षौ
से ना म्भो धी धी ना दौ ये
क्ष च्छे दा त्पू र्व मे त्र दे शे
वा ञ्छ न्तौ वा वि न्ध्य ह्यौ नि ले तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.