रोदोरन्ध्रं व्यश्नुवानानि लोलै-
रङ्गस्यान्तर्मादितैः स्थावराणि ।
केचित्गुर्वीमेत्य संयन्निषद्यां
क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥

मल्लिनाथः रोदोरन्ध्रमिति ॥ केचिद्वीराः गुवीं महतीं संयतो युध एव निषीदन्त्यस्यामिति निषद्यामापणम् । `आपणस्तु निषद्यायाम्` इत्यमरः । `संज्ञायां समजनिपद-` (अष्टाध्यायी ३.३.९९ ) इत्यादिना क्यप् । एत्य प्राप्य । आङ्पूर्वादिणः क्त्वो ल्यप् । देहस्यान्तरभ्यन्तरे मापितैः परिच्छिन्नैः । मातेर्माङो वा ण्यन्तात्कर्मणि क्तः । `अर्तिर्ह्रा--` (अष्टाध्यायी ७.३.३६ ) इत्यादिना पुगागमः । लोलैरस्थिरैः प्राणैरेव मूल्यैः प्राणमूल्यै रोदसोर्द्यावापृथिव्यो रन्ध्रमन्तरालं व्यश्नुवानानि व्याप्नुवन्ति । अश्नोतेलटः शानजादेशः । स्थावराणि स्थिराणि । यशांसि क्रीणन्ति स्म । स्वीचक्रुरित्यर्थः । अत्र न्यूनैः प्राणैस्ततोऽधिकयशःपरिवर्तनान्यूनपरिवृत्तिरलंकारः । `समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥` इति लक्षणात्
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
रो दो न्ध्रं व्य श्नु वा ना नि लो लै
ङ्ग स्या न्त र्मा दि तैः स्था रा णि
के चि त्गु र्वी मे त्य सं न्नि द्यां
क्री न्ति स्म प्रा मू ल्यै र्य शां सि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.