Loading data... On slow networks this could take a few minutes.
100%

वीर्योत्साहश्लाघि कृत्वावदानं
सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः
श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥

मल्लिनाथः वीर्योत्साहेति ॥ सङ्ग्रामाग्रे रणाग्रे वीर्योत्साहाभ्यां श्लाघ्यते इति श्लाघि विक्रमाहंकारशोभि अवदानं महत्कर्म कृत्वा । `अवदानं कर्म वृत्तम्` इत्यमरः । लज्जितानाम् । मानित्वात्स्वनामाख्याने संकोचवतामित्यर्थः । शत्रुभिरज्ञातानामज्ञातनामकानां मानिनां मानशालिनां शूराणां संबन्धि श्रीमत् शौर्यश्रीयुक्तं नाम नग्नाः बन्दिनः । `बन्दिनि क्षपणे नग्नः` इति विश्वः । उच्चैः श्रावयन्ति स्म । अयमसाविति कथयामासुरित्यर्थः । युक्तम् । सर्वमेतदुचितमित्यर्थः । अत्र लज्जामानाज्ञातयोर्विशेषणगत्या बन्दिश्रवणहेतुत्वात्काव्यलिङ्गभेदः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
वी र्यो त्सा श्ला घि कृ त्वा दा नं
ङ्ग्रा मा ग्रे मा नि नां ज्जि ता नाम्
ज्ञा ता नां त्रु भि र्यु क्त मु च्चैः
श्री न्ना श्रा न्ति स्म ग्नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.