Loading data... On slow networks this could take a few minutes.
100%

आक्रम्याजेरग्रिमस्कन्धमुच्चै-
रास्थायाथो वीतशङ्कं शिरश्च ।
हेलालोला वर्त्म गत्वातिमर्त्यं
द्यामारोहन्मानभाजः सुखेन ॥

मल्लिनाथः आक्रम्येति ॥ मानभाजोऽभिमानवन्तः । उच्चैरुन्नतं आजेर्युद्धस्याग्रिमस्कन्धमग्रभागमंसप्रदेशं चाक्रम्यारुह्य वीतशकं शिरःसंमुखमुत्तमकायं चास्थायारुह्य हेलासु युद्धक्रीडासु, लीलासु च लोला उत्सुकाः सन्तः अतिमर्त्यं वर्म गत्वा । अमानुषं युद्धं कृत्वेत्यर्थः । अन्यत्रामानुषगम्यमारोहणमार्गं गत्वा सुखेनानायासेन द्यां स्वर्गमभ्रंकषं गिरिशिखरादिक्रीडास्थानम् । `द्यौः स्वर्गसुखवर्त्मनोः` इति विश्वः । आरोहन्नारूढाः `युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः` (मनु० ७।८९) इति मनुस्मरणादिति भावः । यथा कथंचित्कश्चित्स्कन्धमूर्धारोहणक्रमेण किंचिदुरारोहमद्रितटादिकमारोहति तद्वदिति प्रतीतेर्विशेषणमहिम्नागता समासोक्तिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
क्र म्या जे ग्रि स्क न्ध मु च्चै
रा स्था या थो वी ङ्कं शि श्च
हे ला लो ला र्त्म त्वा ति र्त्यं
द्या मा रो न्मा भा जः सु खे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.