यातैश्चातुर्विध्यमस्त्रादिभेदा-
दव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
शिक्षाशक्तिं प्राहरन्दर्शयन्तो
मुक्तामुक्तैरायुधैरायुधीयाः ॥

मल्लिनाथः यातैरिति ॥ आयुधेन जीवन्तीत्यायुधीया आयुधजीविनः । `शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः` इत्यमरः । `आयुधाच्छ च` (अष्टाध्यायी ४.४.१४ ) इति छप्रत्ययः । शिक्षाशक्तिमभ्यासपाटवं दर्शयन्तः अस्त्रादिभेदादस्त्रमहास्त्रादिकभेदाच्चातुर्विध्यं यातैः प्राप्तैः । सुष्टुभावः सौष्ठवं नैशित्यादिगुणवत्त्वं तस्मात् । उद्गात्रादिस्वादप्रत्ययः । लाघवाद्वेगवत्त्वाच्च । `इगन्ताच्च लघुपूर्वात्` (अष्टाध्यायी ५.१.१३१ ) इत्यण्प्रत्ययः । अव्यासङ्गैरप्रतिषिद्धैः मुच्यन्त इति मुक्तानि शरादीनि न मुच्यन्त इत्यमुक्तानि खङ्गादीनि च तैस्तैर्मुक्तामुक्तैरिति द्वन्द्वः । आयुधैः प्राहरन् । स्वभा. वानुप्रासयोः संसृष्टिः
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
या तै श्चा तु र्वि ध्य स्त्रा दि भे दा
व्या ङ्गैः सौ ष्ठ वा ल्ला वा च्च
शि क्षा क्तिं प्रा न्द र्श न्तो
मु क्ता मु क्तै रा यु धै रा यु धी याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.