Loading data... On slow networks this could take a few minutes.
100%

प्रजापतिक्रतुनिधनार्थमुत्थितं-
व्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।
समुद्यतं सपदि वधाय विद्विषा-
मतिक्रुधं निषधमनौषधं जनः ॥

मल्लिनाथः प्रजेति ॥ जनः सपदि विद्विषां वधाय समुद्यतमुद्युक्तं उद्धतं तीव्रम् अत एवातिक्रुधमधिकक्रोधि । अनौषधम् । अप्रतीकारमित्यर्थः । निषधं निषधाख्यं नृपं प्रजापतिक्रतुनिधनार्थं दक्षाध्वरध्वंसनार्थमुत्थितं रुद्रस्येमं रौद्रं रुद्रसंबन्धिनं ज्वरमिव वीरभद्ररूपिणमित्यर्थः । व्यतर्कयत् । अत्र राज्ञोऽपि प्रजापतित्वात्पुनः प्रजापतिक्रतुनिधनार्थमुत्थितः साक्षाद्दक्षाध्वरविध्वंसी वीरभद्र एवायमित्युत्प्रेक्षितवानित्यर्थः । उपमा
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र जा ति क्र तु नि ना र्थ मु त्थि तं
व्य र्क ज्ज्व मि रौ द्र मु द्ध तम्
मु द्य तं दि धा वि द्वि षा
ति क्रु धं नि नौ धं नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.