Loading data... On slow networks this could take a few minutes.
100%

परस्परं परिकुपितस्य पिंषतः
क्षतोर्मिकाकनकपरागपङ्किलम् ।
करद्वयं सपदि सुधन्वनो निजै-
रनारतस्रुतिभिरधाव्यताम्बुभिः ॥

मल्लिनाथः परस्परमिति ॥ परिकुपितस्यातिक्रुद्धस्य अत एव परस्परं पिंषतः पीडयतः। करद्वयमित्यर्थः । सपदि सुधन्वनो राज्ञः क्षतानां पिष्टानामूर्मिकाणामङ्गुलीयकानां कनकपरागेण सुवर्णचूर्णेन पङ्किलं पङ्कवत् । पिच्छादित्वान्मत्वर्थीय इलप्रत्ययः । `अङ्गुलीयकमूर्मिका` इत्यमरः । करद्वयं पाणियुग्मं निजैः करद्वयजन्यैरेवानारतस्रुतिभिरविरतस्रावैरम्बुभिः । स्वेदोदकैरधाव्यताक्षाल्यत । गतिशुद्ध्योः` इति धातोः कर्मणि लङ् । अनोर्मिकाणां करद्वयस्य च परागत्वपङ्किलत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्ती तयोः संकरः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्प रं रि कु पि स्य पिं तः
क्ष तो र्मि का रा ङ्कि लम्
द्व यं दि सु न्व नो नि जै
ना स्रु ति भि धा व्य ता म्बु भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.