प्रकुप्यतः श्वसनसमीरणाहति-
स्फुटोष्मभिस्तनुवसनान्तमारुतैः ।
युधाजितः कृतपरितूर्णवीजनं
पुनस्तरां वदनसरोजमस्विदत् ॥

मल्लिनाथः प्रकुप्यत इति ॥ प्रकुप्यतोऽतिक्रुध्यतो युधाजितो नाम राज्ञो वदनसरोज श्वसनसमीरणस्य निःश्वासमारुतस्याहतिभिः स्फुटः प्रकट ऊष्मा उष्णत्वं येषां ते तैः तनुवसनान्तमारुतैः सूक्ष्मवस्त्राञ्चलवातैः कृतं परिपूर्णवीजनं शीघ्रविधूननं यस्य तत् । अतिशीघ्र वीज्यमानमपीत्यर्थः । पुनस्तरां पुनरत्यन्तम् । अव्ययादामुप्रत्ययः । अस्विदत्स्विद्यति स्म । स्विदेर्लुङि पुषादित्वादङ्प्रत्ययः । अत्रोष्मविशेषणगत्या स्वेदहेतुत्वाकाव्यलिङ्गम् , वीजनेऽपि स्वेद इति विरोधः । वीचिरयं चुरादिष्वन्वेषणीयः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र कु प्य तः श्व मी णा ति
स्फु टो ष्म भि स्त नु ना न्त मा रु तैः
यु धा जि तः कृ रि तू र्ण वी नं
पु स्त रां रो स्वि दत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.