पयोमुचामभिपततां दिवि द्रुतं
विपर्ययः परित इवातपस्य सः ।
समक्रमः समविषमेष्वथ क्षणा-
त्क्षमातलं बलजलराशिरानशे ॥

मल्लिनाथः पयोमुचामिति ॥ अथासुरसेनादर्शनानन्तरं समविषमेषु निम्नोन्नतेषु समक्रमस्तुल्यसंचारः बलजलराशिः सैन्यसागरः दिवि व्योम्नि द्रुतमभिपततामभिधावतां पयोमुचां संबन्धी आतपस्य विपर्ययः छायेव परितः क्षणारक्षमातलं भूतलमानशे । `अशू व्याप्तौ`, `अत आदेः` (७/४/७०) इत्यभ्यासदीर्घः । `अश्नोतेश्च` (७/४/७२) इति नुमागमः । उपमालंकारः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
यो मु चा भि तां दि वि द्रु तं
वि र्य यः रि वा स्य सः
क्र मः वि मे ष्व क्ष णा
त्क्ष मा लं रा शि रा शे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.