ममौ पुरः क्षणमिव पश्यतो मह-
त्तनूदरस्थितभुवनत्रयस्य तत् ।
विशालतां दधति नितान्तमायते
बलं द्विषां मधुमथनस्य चक्षुषि ॥

मल्लिनाथः ममाविति ॥ पुरोऽग्रे क्षणमिव पश्यतः क्षणमात्रं विलोकयतः । इवशब्दो वाक्यालंकारे । तनौ क्षोदीयस्युदरे कुक्षौ स्थितं भुवनत्रयं यस्य तस्य मधुमथनस्य हरेः संबन्धिनि विशालतां वैपुल्यं दधति दधाने नितान्तमायते दीर्घे द्राधीयसि चक्षुषि महत् तत् द्विषां बलं ममौ ववृते । क्षणमीक्षणादेव परबले इयत्तां परिचिच्छेदेत्यर्थः । क्षोदीयस्यपि कुक्षौ भुवनत्रयं परिच्छिदतः हरेरतिमहति चक्षुषि अल्पबलपरिच्छेदः कियानिति भावः । अत्र भुवनत्रयापेक्षया आधारस्य कुक्षेरल्पत्वाच्चक्षुरपेक्षया आधेयस्य बलस्याल्पत्वाच्चाधिकालंकारौ संकीर्यते
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मौ पु रः क्ष मि श्य तो
त्त नू स्थि भु त्र स्य तत्
वि शा तां ति नि ता न्त मा ते
लं द्वि षां धु स्य क्षु षि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.