क्षणेन च प्रतिमुखतिग्मदीधिति-
प्रतिप्रभास्फुरदसिदुःखदर्शना ।
भयङ्करा भृशमपि दर्शनीयतां
ययावसावसुरचमूश्च भूभृताम् ॥

मल्लिनाथः क्षणेनेति ॥ प्रतिमुखस्याभिमुखस्य तिग्मरश्मेरुष्णांशोः प्रतिप्रभाभिः प्रतिफलितदीप्तिभिः स्फुरद्भिर्देदीप्यमानैरसिभिः खङ्गैर्दुःखं दुष्करं दर्शन यस्याः सा।&#३२; दुर्दर्शेत्यर्थः । असावसुरचमूश्चैद्यसेना क्षणेन च भूभृतां हरिसैनिकानां भृशं भयं करोतीति भयंकरापि । `मेघर्तिभयेषु कृञः` (अष्टाध्यायी ३.२.४३ ) इति खच्प्रत्ययः । दर्शनीयतां मनोहरतामिति विरोधः । दृष्टिविषयतां ययावित्यविरोधः । अत एव विरोधाभासोऽलंकारः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
क्ष णे प्र ति मु ति ग्म दी धि ति
प्र ति प्र भा स्फु सि दुः र्श ना
ङ्क रा भृ पि र्श नी तां
या सा सु मू श्च भू भृ ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.