Loading data... On slow networks this could take a few minutes.
100%

प्रसारिणि सपदि नभस्तले ततः
समीरणभ्रमितपरागरूषिता ।
व्यभाव्यत प्रलयजकालिकाकृति-
र्विदूरतः प्रतिबलकेतनावलिः ॥

मल्लिनाथः प्रसारिणीति ॥ ततः श्रवणानन्तरं सपद्यविलम्बेन नभस्तले प्रसारिणी व्याप्ता समीरणेन वायुना भ्रमितेन परागेण रूषिता रूक्षीकृता अत एव प्रलयजायाः कल्पान्तप्रादुर्भूतायाः कालिकाया महाकाल्या आकृतिरिवाकृतिर्यस्याः मा प्रतिबले प्रतिपक्षसैन्ये केतनावलिर्ध्वजपङ्क्तिर्विदूरतो दूरादलक्ष्यत । एतावता प्रत्यासत्तिरासीदित्यर्थः । उपमालंकारः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्र सा रि णि दि स्त ले तः
मी भ्र मि रा रू षि ता
व्य भा व्य प्र का लि का कृ ति
र्वि दू तः प्र ति के ना लिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.