यथा यथा पटहरवः समीपता-
मुपागमत्स हरिवराग्रतः सरः ।
तथा तथा हृषितवपुर्मुदाकुला
द्विषां चमूरजनि जनीव चेतसा ॥

मल्लिनाथः यथा यथेति ॥ हरिर्वरो जामातेव हरिवरः । `वरो जामातृवर्ययोः` इति विश्वः । तस्याग्रतः सरतीत्यग्रतःसरोऽग्रेसरः । `पुरोऽग्रतोऽग्रेषु सर्तेः` (अष्टाध्यायी ३.२.१८ ) इति टप्रत्ययः। स पूर्वोक्तः पटहरवो यथा यथा यावद्यावत् समीपतामासन्नतामुपागमत् तथा तथा तावत्तावत् द्विषतां चमूर्जनीव वधूरिव । जनी सीमन्तिनी वधूः` इति विश्वः । चेतसा मुदाकुला आनन्दाविला हृषितवपू रोमाञ्चिताङ्गी । `हृषेर्लोमसु` (अष्टाध्यायी ७.२.२९ ) इतीडागमः । अजनि जाता । जनेः कर्तरि लुङ् `दीपजन(अष्टाध्यायी ३.१.६१ ) इत्यादिना चिण् प्रत्ययः । वधूवरसमागमवत्प्रतिद्वन्द्विसमागमो महोत्साहवर्धनो वीरसेनाया इत्युपमार्थः। तेन सैन्ययोरन्योन्यशब्दश्रवणकारिणी प्रत्यासत्तिरासीदिति व्यज्यते
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
था था वः मी ता
मु पा त्स रि रा ग्र तः रः
था था हृ षि पु र्मु दा कु ला
द्वि षां मू नि नी चे सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.