Loading data... On slow networks this could take a few minutes.
100%

मनस्विनामुदितगुरुप्रतिश्रुतिः
श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
यथा पुरःसमरसमुद्यतद्विष-
द्वलानकध्वनिरुदकर्षयन्मनः ॥

मल्लिनाथः मनस्विनामिति ॥ उदिता उत्पन्ना गुरुगंभीरा प्रतिश्रुतिः प्रतिध्वनिर्यस्य सः निजमृदङ्गनिःस्वनः स्वसेनातूर्यघोषः श्रुतः सन् तथा मनस्विनां मनो नोदकर्षयन्नाचकर्ष । कृषिरयं स्वार्थण्यन्तः । यथा पुरोऽग्रे समरसमुद्यते समरोद्युक्ते द्विषद्धले शत्रुसैन्ये ये आनकास्तेषां ध्वनिरुदकर्षयत् । एतेनैषां वीरस्थायी महोत्साह उक्तः । अत्र भयंकरस्यापि परसैन्यघोषस्योत्साहजनकत्वं महावीरेषु न विरुध्यत इति विरोधाभासोऽलंकारः । भीहेतौ सत्यपि भयानुत्पत्तेर्विशेषोक्तिविरुद्धकार्योत्पत्तेर्विषमभेदश्चेति संकरः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
स्वि ना मु दि गु रु प्र ति श्रु तिः
श्रु स्त था नि मृ ङ्ग निः स्व नः
था पु रः मु द्य द्वि
द्व ला ध्व नि रु र्ष न्म नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.