Loading data... On slow networks this could take a few minutes.
100%

जडीकृतश्रवणपथे दिवौकसां
चमूरवे विशति सुराद्रिकन्दराः ।
अनर्थकैरजनि विदग्धकामिनी-
रतान्तरक्वणितविलासकौशलैः ॥

मल्लिनाथः जडीकृतेति ॥ दिवमोको येषां तेषां दिवौकसां देवानाम् । कंदरान्तर्गतानामित्यर्थः । जडीकृतश्रवणपथे बधिरीकृतश्रोत्रमार्गे । सापेक्षत्वेऽपि गमकत्वात्समासः । चमूरवे सेनाघोषे सुराद्रिकंदराः मेरुगह्वराणि विशति सति । विदग्धकामिनीनां प्रौढाङ्गनानां रतान्तरे सुरतमध्ये कणितविलासाः कूजितसंपदस्तासु यानि कौशलानि तैरनर्थकैरजनि जातम् । प्रेयसां बाधिर्यादिति भावः । अत्र श्रोत्रजाड्यस्य विशेषणगत्या क्वणितानर्थक्यहेतुत्वात्काव्यलिङ्गम् । तदुपजीवितेन क्वणितानामानर्थक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्त्युत्पादनयोरङ्गाङ्गिभावेन संकरः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
डी कृ श्र थे दि वौ सां
मू वे वि ति सु रा द्रि न्द राः
र्थ कै नि वि ग्ध का मि नी
ता न्त क्व णि वि ला कौ लैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.