Loading data... On slow networks this could take a few minutes.
100%

अरातिभिर्युधि सहयुध्वनो हता-
ञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
अकुर्वत प्रथमसमागमोचितं
चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥

मल्लिनाथः अरातिभिरिति ॥ सह युध्यन्त इति तान्सहयुध्वनः । `सहे च` (३।२। ९६) इति क्वनिप् । अत एवारातिभिर्युधि हतान् जिघृक्षवो ग्रहीतुमिच्छवः स्वयंवरणकामाः । ग्रहेः सन्नन्तादुप्रत्ययः । सुरगणिका अप्सरसः श्रुतरणतूर्यनिःस्वनाः सत्यश्चिरोज्झितम् । प्रायेण प्रवीरसंवादाभावादिति भावः । प्रथमसमागमोचितम् । अतिमोहनमित्यर्थः । प्राथम्यं च पुंसामिदं प्रथमत्वादिति भावः । प्रसाध. नमकुर्वत । परिष्कृतवत्य इत्यर्थः । `प्रतिकर्म प्रसाधनम्` इत्यमरः । अत्र स्वयंवरणतूर्यश्रवणयोर्विशेषणगत्या प्रसाधनहेतुत्वात्काव्यलिङ्गम्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
रा ति भि र्यु धि यु ध्व नो ता
ञ्जि घृ क्ष वः श्रु तू र्य निः स्व नाः
कु र्व प्र मा मो चि तं
चि रो ज्झि तं सु णि काः प्र सा नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.