अनारतं रसति जयाय दुन्दुभौ
मधुद्विषः फलदलघुप्रतिस्वनैः ।
विनिष्पतन्मृगपतिभिर्गुहामुखै-
र्गताः परां मुदमहसन्निवाद्रयः ॥

मल्लिनाथः अनारतमिति ॥ मधुद्विषो हरेः दुन्दुभौ रणभेर्यां जयायानारतमश्रान्तं रसति ध्वनति सति फलन्तः संक्रामन्तोऽलघवो महान्तः प्रतिस्वनाः प्रतिध्वनयो येषु तैः विनिष्पतन्तः क्षोभान्निर्गच्छन्तः मृगपतयः सिंहा येभ्यस्तैर्गुहाभिरेव मुखैरद्रयः परां मुदं गताः सन्तः अहसन्निव । सिंहानां धावल्याद्ध्वनियोगाच्च हसनोत्प्रेक्षा
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ना तं ति या दु न्दु भौ
धु द्वि षः घु प्र ति स्व नैः
वि नि ष्प न्मृ ति भि र्गु हा मु खै
र्ग ताः रां मु न्नि वा द्र यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.