बबृंहिरे गजपतयो महानकाः
प्रदध्वनुर्जयतुरगा जिहेषिरे ।
असंभवद्गिरिवरगह्वरैरभू-
त्तदा रवैर्दलित इव स्व आश्रयः ॥

मल्लिनाथः बबृंहिर इति ॥ गजपतयो बबृंहिरे बबृंहुः । बृंहणं चक्रुरित्यर्थः । `बृहि वृद्धौ शब्दे च` आत्मनेपदं चिन्त्यम् । अत एव भट्टमल्लः-`हेषते हेषतेऽश्वानां हस्तिनां बृंहतीति च` इति । महानकाः प्रध्वनुः । जयशीलास्तुरगा जयतुरगा जिहेषिरे । हेषां चक्रुरित्यर्थः । `हेषृ ह्रेषृ अव्यक्ते शब्दे` । तदा तस्मिन्काले असंभवन्त्यन्तर्धातुमपर्याप्नुवन्ति गिरिवरगह्वराणि येषां तैः गिरिवरगह्वरेषु अमाद्भिः। अवर्तमानैरित्यर्थः । रवैर्बृंहणादिघोषैः । स्व आश्रयः स्वसमवायिकारणमाकाशो दलित इव विदारित इवाभूदित्युत्प्रेक्षा तया तेषामतितीव्रत्वं व्यज्यते
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
बृं हि रे यो हा काः
प्र ध्व नु र्ज तु गा जि हे षि रे
सं द्गि रि ह्व रै भू
त्त दा वै र्द लि स्व श्र यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.