उपेत्यच स्वनगुरुपक्षमारुतं
दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
प्रकम्पितस्थिरतरयष्टि तत्क्षणं
पतत्पतिः पदमधिकेतनं दधौ ॥

मल्लिनाथः उपेत्येति ॥ किंचेति चार्थः । पतत्पतिरण्डजमण्डलेश्वरः । “पतत्पत्ररथाण्डजाः` इत्यमरः । त्विषा कान्त्या कपिशितानि कपिशीकृतानि दूराणि दिङ्मुखानि येन सः । स्वनेन गुरुर्महान्पक्षमारुतो यस्मिन्कर्मणि तत्तथा दिवः स्वर्गादुपेत्यागत्य तत्क्षणं तस्मिन्क्षणे प्रकम्पिता स्थिरतरा निश्चला यष्टिरावासस्तम्भो यस्मिंस्तत्तथा अधिकेतनं केतने । विभक्त्यर्थेऽव्ययीभावः । पदं दधौ निहितवान्
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
पे त्य स्व गु रु क्ष मा रु तं
दि स्त्वि षा पि शि दू दि ङ्मु खः
प्र म्पि स्थि ष्टि त्क्ष णं
त्प तिः धि के नं धौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.