Loading data... On slow networks this could take a few minutes.
100%

अवारितं गतमुभयेषु भूरिशः
क्षमाभृतामथ कटकान्तरेष्वपि ।
मुहुर्युधि क्षतसुरशत्रुशोणित-
प्लुतप्रधिं रथमधिरोहति स्म सः ॥

मल्लिनाथः अवारितमिति ॥ अथायुधसंनिधानानन्तरं स हरिरुभयेषु द्वयेषु । द्विविधेष्वित्यर्थः । क्षमाभृतां राज्ञां, गिरीणां च कटकान्तरेष्वपि शिबिराभ्यन्तरेषु, नितम्बावकाशेषु च भूरिशो बहुशः अवारितमप्रतिहतं गतं प्रस्थितं मुहुरसकृद्युधि क्षतानां सुरशत्रूणामसुराणां शोणितैः प्लुताः सिक्ताः प्रधयो नेमयो यस्य तम् । `चक्रधारा प्रधिर्नेमिः` इति हलायुधः । रथमधिरोहति स्म आरुरोह
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
वा रि तं मु ये षु भू रि शः
क्ष मा भृ ता का न्त रे ष्व पि
मु हु र्यु धि क्ष सु त्रु शो णि
प्लु प्र धिं धि रो ति स्म सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.