Loading data... On slow networks this could take a few minutes.
100%

गभीरताविजितमृदङ्गनादया
स्वनश्रिया हतरिपुहंसहर्षया ।
प्रमोदयन्नथ मुखरान्कलापिनः
प्रतिष्ठते नवघनवद्रथः स्म सः ॥

मल्लिनाथः गभीरतेति ॥ अथ गरुडागमनानन्तरं स रथो नवघनवत् नवघनेन नवाम्बुदेन तुल्यम् । `तेन तुल्यम्-` (अष्टाध्यायी ५.१.११५ ) इति वतिप्रत्ययः । गभीरतया गाम्भीर्येण विजितो मृदङ्गनादो यया तया हतो रिपुहंसानां हंसानामिव रिपूर्णां हर्षो यया तया स्वनश्रिया ध्वनिसंपदा मुखरान्कूजतः कलापिनो मयूरान्प्रमोदयन् प्रतिष्ठते स प्रतस्थे । `समवप्रविभ्यः स्थः` (१॥३।२२) इत्यात्मनेपदम् । `लट् स्मे` (अष्टाध्यायी ३.२.११८ ) इति भूते लट् । तद्धितगता श्रौती पूर्णोपमा
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
भी ता वि जि मृ ङ्ग ना या
स्व श्रि या रि पु हं र्ष या
प्र मो न्न मु रा न्क ला पि नः
प्र ति ष्ठ ते द्र थः स्म सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.