मुहुः प्रतिस्खलितपरायुधा युधि
स्थवीयसीरचलनितम्बनिर्भराः ।
अदंशयन्नरहितशौर्यदंशना-
स्तनूरयं नय इति वृष्णिभूभृतः ॥

मल्लिनाथः मुहुरिति ॥ वृष्णिभूभृतो यादवनरेन्द्राः मुहुरसकृद्युधि प्रतिस्खलितपरायुधाः भग्नप्रतिपक्षायुधाः स्थवीयसीः स्थूलतराः । पराक्रमानुरूपप्रकर्षवतीरित्यर्थः । `स्थूलदूर-` (अष्टाध्यायी ६.४.१५६ ) इत्यादिना पूर्वस्य गुणलोपौ । अचलनितम्बनिर्भरा अद्रिकटकनिबिडाः । अन्तःसारवतीरित्यर्थः । अरहितमव्यक्तं शौर्यमेव दंशनं वर्म यासां तास्तनूर्देहान् अयं नय इति वर्मधारणं नीतिरिति हेतोः न तु भयादिति भावः । अदंशयन्नवर्मयन् । दंशेरनुदात्तेत्वात्परस्मैपदं चिन्त्यमित्याहुः । अत एव भट्टमल्लः-`संवर्मयति संनह्यत्यात्मने सज्जतीत्यमी । संदंशते दंशयते संनाहे पदपञ्चकम् ॥` इति । केचित्तु चुरादिषूभयपदिषु पठन्ति । अत्र साभि प्रायविशेषणत्वात्परिकरालंकारः
छन्दः रुचिरा [१३: जभसजग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मु हुः प्र ति स्ख लि रा यु धा यु धि
स्थ वी सी नि म्ब नि र्भ राः
दं न्न हि शौ र्य दं ना
स्त नू यं ति वृ ष्णि भू भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.